SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Matt Aradhana Kendra Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeeee यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्पन्ति ते पृथकर्तुं न शक्यन्ते, यथा तद्दण्डं 2 शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते-न तस्मादहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वादृष्टान्तबहुत्वमित्याह-'से जहा'इत्यादि, तद् यथा नामारतिः-चित्तोद्वेगलक्षणा 'स्याद्' भवेत् , सा च शरीरजाता इत्यादि गण्डवन्नेया, दार्टान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं-पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि[संभूय तिष्ठति, एवमेव यदेतचेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्म& विवर्तरूपं वा नात्मनः पृथग्भवितुमर्हति, पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथि-10 | वीजात इत्यादि दृष्टान्तदाष्टोन्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात्-तडागरूपा भवेत् , सापि पृथिव्यामेव जातेत्यादि प्राग्वच्चय॑ः, तथा तद् यथा नाम पुष्कलं प्रचुरमुदकपुष्कलम्-उदकप्राचुर्य तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवा- 18 भिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्धदः स्याद् , अत्रापि दृष्टान्तदा_न्तिके, न तसादवयविनः || पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह-यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां यतीनां 'निर्ग्रन्थानां निष्किञ्चनानामुद्दिष्टं तदर्थ प्रणीतं व्यञ्जितं तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा-आचार इत्यादि यावदृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतखात् वरुचिविरचितरथ्यापु For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy