SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Ma i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir गमात्प्रधानात्मनोरेव विद्यमानखान्महदहङ्कारादेरनुत्पत्तिरेव, एकखाच्च प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगः स्याद् एकसंबन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवं जगद्वैचिव्यं न स्याद् , आत्मनश्चाकर्तृखे तत्कृतौ बन्धमोक्षौ न स्याताम् , एतच्च दृष्टेष्टबाधितं । नापि कारणे सत्कार्यवादो, युक्तिभिरनुपपद्यमानखात, तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिनां कर्मगुणव्यपदेशानामभावात , घटार्थिनां च क्रियासु प्रवृतेन कारणे कार्यमिति ॥ लोकायतिकस्यापि भूतानामचेतनखात्कर्तृखानुपपत्तिः, कायाकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे च मरणाभावप्रसङ्गः स्यात, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थाप। यति, नच भूतान्येव धर्मिलेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येत-IIXI दप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं | सत्त्वमसत्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तसिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्याः सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह-'तं स हमाणा' इत्यादि, 'तम्' आत्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि || | उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः' प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः eeeeeeeeeeeeesese Reeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy