SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mal i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsarrifyanmandir चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोस्ति, स चायम्-"इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽसि भिक्षवः ! ॥१॥" तथा "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनिगर्हणेन । प्रकाशनात्संवरणाच तेषामत्यन्तमूलोद्धरणं वदामि ॥१॥" इत्येवमादि, तथा यदुक्तं क्षणिकलं साधयता यथा 'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेनित्यो वेत्यादि, तत्र नित्येप्रच्युतानुत्पन्नस्थिरैकखभावे कारकाणां व्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यसपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानं, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष | एव प्रवर्तते, यतः 'सामग्री जनिका, न ह्येक किश्चिदिति, तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्यते, क्षणस्यावि-10 वेकनानाधेयातिशयखात् , क्षणानां च परस्परोपकारकोपकार्यबानुपपत्तेः सहकारिखाभावः, सहकार्यनपेक्षायां च प्रतिविशि-18 ष्टकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं-कि शक्षणक्षयित्वेनानित्यत्वमाहोवित्परिणामानित्यतयेति ?, तत्र क्षणक्षयित्वे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः | ॥ क्षणिकानित्यस कारणेभ्य उत्पाद इति ?, अथ पूर्वक्षणादुचरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, यतोऽसौ । | पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा ,न तावद्विनष्टः, तस्यासत्ताजनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोनामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टैवैककालताऽश्रिता, तथाहि-याऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयो For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy