SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Ma Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsa a nmandit Peeeeeeeeeeeeeees न्ते' समाददति तदुपभोगार्थमिति ॥ साम्प्रतं तजीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयबाह-एवं चेग' इत्यादि। मूर्तिमतः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम्, अतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत् तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तजीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, तथा कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि ?, तथा 'इदं मे शरीरं पुराणं कमें त्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवास्तिसमश्रद्दधानाः 'प्रागल्भिकाः प्रागल्भ्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः सात् ततः संस्था&| नवर्णगंधरसस्पर्शान्यतमगुणोपेतः स्यात्, न च ते वराकाः स्वदर्शनानुरागाश्च तमसावृतदृष्टय एतद्विदन्ति यथा-मूर्तस्यायं धर्मो नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धार्थ्यानाभ्युपगच्छन्ति । तथा 'निष्क्रम्य' च खदर्शनविहितां प्रव्रज्यां गृहीत्रा नान्यो । जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य खतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति । यद्यपि लोकाय तिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य(नाना) तथाविधपरिणS तेस्तदेवाभिरुचितम् , अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा-नीलपटाद्यभ्युपगन्तुः कश्चिदस्त्येव प्रवज्याविशेष इत्यदोष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-'तं सरहमाणे'त्यादि, 'तं नास्तिकवाद्युप१ये मण्डलवादिकाःप्र। seseseeeeeeeeeeeecedeces For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy