________________
Shri Maharadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag vanmandir
| स्थित्वा तदेतत्पद्मं प्रासादीयादि प्रतिरूपान्तविशेषणकला पोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या 'वदेत्' ब्रूयात् – 'अहमंसि' त्ति अहमस्मि पुरुषः, किम्भूतः :- ' कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीनः | पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावान्निष्क्रान्तः परिणतबुद्धिः 'मेधावी' लवनोत्प्लवनयोरुपायज्ञः, तथा | 'अबालो' मध्यमवयाः षोडशवर्षोपरिवती 'मार्गस्थः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं | वर्तते तथा यत्पराक्रमणं - विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा - पराक्रमः - सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेव|म्भूतविशेषणकलापोपेतोऽहम् 'एतत्' पूर्वोक्तविशेषणकला पोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकृलेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्खाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत् - अभिक्रामेत् तदभिमुखं गच्छेत् यावद्यावच्चासौ तदवतरणाभिप्रायेणाभिमुखं क्रामेतावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांथ 'सेयः' | कर्दमः, ततोऽसौ महाकर्द मोदकाभ्यामाकुलीभूतः प्रहीणः - सद्विवेकेन रहितस्त्यक्त्वा तीरं सुव्यत्ययाद्वा तीरात्महीणः - प्रभ्रष्टः | अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः - कर्दमस्तस्मिन्निषण्णो - निमग्न आत्मानमुद्धर्तुमसमर्थः, तसाच | तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमत: 'नो हव्वाए'ति नार्वाक्तटवर्त्यसौ भवति 'नो पाराए' ति | नापि विवक्षितप्रदेशप्रात्या पारगमनाय वा समर्थो भवति । एवमसावुभय भ्रष्टो मुक्तमुक्तोलीवदनर्थायैव प्रभवतीत्ययं प्रथमः पुरुषः, | पुरुष एव पुरुषजात:- पुरुषजातीय इति ॥ २ ॥ 'अर्थ' प्रथमपुरुषादनन्तरम् 'अपरो' द्वितीयः पुरुषजातः - पुरुष इति । अथवेति | वाक्योपन्यासार्थे, अथ - कचित्पुरुषो दक्षिणाद्दिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति
For Private And Personal