________________
Shri Mahalin Pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsacuri Gyanmandir
मया च श्रुतं तदुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह 'इह' प्रवचने सूत्रकृद्वितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या ? लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृखा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह'त्ति तद्यथार्थः, स च वाक्योषभ्यासार्थः, नामशब्दः | सम्भावनायां, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पद्मानि तानि विद्यन्ते यस्थामसौ पुष्करिणी 'स्याद' भवेदेवम्भूता, तद्यथा'बहु' प्रचुरमगाधमुदकं यस्यां सा बहुदका, तथा बहुः-प्रचुरःसीयन्ते-अवबध्यन्ते यसिन्नसौ सेयः-कर्दमः स यस्यां सा बहुसेया
प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकमृतेत्यर्थः । तथा ६ लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा मया सा लब्धास्था,
तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्बहुपनेत्यर्थः। तथा प्रसादः-प्रसन्नता | निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथामिमुख्येन सदाऽवस्थितानि रूपाणि-राजहेसचक्रवाकसारसादीनि गजमहिषमृगयथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छवात्तस्याः सर्वत्र प्रतिविम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबिम्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरुवा पडिरूवत्ति पर्याया इत्येते चखारोऽप्य१ पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तेः, बहुर्वाऽत्र प्रत्ययः ।
For Private And Personal