SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयायां वृत्तौ ॥२६८ ॥ www.kobatirth.org Acharya Shri Kailashsagaranmandir मया स्वसमयगुणव्यवस्थापनं, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति । उपक्रमानन्तरं निक्षेपः, स च नामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तनिक्षेपार्थं निर्मुक्तिकृदाह- 'नाम' मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षे| त्र कालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह - 'जो' इत्यादि, यः | कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति- 'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' वे| तपद्मेषु वनस्पतिकाय विशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं खागमतः पौण्डरीकपदार्थ| ज्ञस्तत्र चोपयुक्त इति। एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह- 'एगे' त्यादि, एकेन भवेन गतेनानन्तरभव एव पौण्डरी केषूत्पत्स्यते स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेणूत्पद्यते, | एते अनन्तरोक्ता त्रयोऽप्यादेश विशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं | तत्त्वज्ञैः सचेतनाचेतनं कथितम् ? ॥१॥” इति वचनात्, इह च पुण्डरीक कण्डरीकयोर्भ्रात्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवर्जासु तिसृष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह - 'तेरिच्छिये 'त्यादि कण्ठ्या, तत्र तिर्यक्षु प्रधानस्य पौण्ड| रीकंत्वप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरः परिसर्पेषु मं| णिफणिनो भुजपरिसर्पेषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावेन' प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना | भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते' त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा For Private And Personal १ पौण्ड रीकाध्य. पुण्डरीकनिक्षेपाः ॥२६८॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy