________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपखिनः तथा विद्याधरा वैताठ्यपराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्स चोपलक्षणार्थवादन्येऽपीक्ष्वाकादयः परिगृह्यन्ते, एतदेव दर्शयति ये चान्ये महधिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दसानुक्तसमुच्चयार्थखात्, ये चान्ये विद्याकलाकलापोपेतास्ते , पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां | चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकता पौण्डरीकाभिधाना भवन्ति । साम्प्र-| तमचित्तद्रव्याणां यत्प्रधानं तस्य पाण्डरीकलप्रतिपादनायाह-'कंसणा'मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दृष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकुचक्रवोदय एव प्रधानकटककेयूराद्यलङ्कारालङ्कृता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह-खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह-'जीवा' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः प्रधानास्ते |पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिका प्रधाना भवन्ति, तेषां यावद्भवं | शुभानुभावखात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे |
For Private And Personal