________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
y anmandir
eceaeeeeeeeeeeeeeeeeee
तश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि सचितद्रव्यमहत् औदारिकादिकं शरीरं, तत्रौदारिकं योजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियं तु योजनशतसहस्रपरिमाणं, तैजसका| मणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकार्मणरूपं चतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत् समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरं, क्षेत्रमहत् लोकालोकाकाशं, कालमहत्सर्वाद्धा, भावमहदौदयिकादिभावरूपतया पोढा, तत्रौदायिको भावः सर्वसंसारिषु विद्यत इतिकृखा बहाश्रयखान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपयवसितोऽभव्यानामनादिसपर्यवसितो भव्यानां सादिसपर्यवसितो नारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साद्यपर्यवसितखात्कालतो महान् , क्षायोपशमिकोऽप्याश्रयबहुखादनाद्यपर्यवसितखाच महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभभावखेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयखादाश्रयमहत्त्वान्महानिति, सानिपातिकोऽप्याश्रयबहुखादेव महानिति । उक्तं महद्, अध्ययनस्यापि नामादिकं षोढा निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः पोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यं, तस्य चोपक्रमादीनि चखायनुयोगद्वाराणि प्ररूपणीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतााधिकारसमवतार| भेदात्योढा, तत्र पूर्वानुपूा प्रथममिदं पश्चानुपूया तु सप्तममनानुपूया तु सप्तगच्छगतायाः श्रेण्या अन्योन्याभ्यासेन द्विरूपोने सति पश्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नाम्नि तु षण्णाग्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापि च श्रुतस्य क्षायोपशमिकखात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु खसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोप
For Private And Personal