SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir ledhana Kendra www.kobatirth.org Acharya Shri Kailashsag olyanmandir कथम् ॥१॥" इत्यादि, एतत्परिहारार्थमाह-'अनीदृशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासौ 'तत्र तत्र' दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्व क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्य, द्रव्यमन्तरेण च निर्वीजखात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यं, तदनभ्युपगमाच नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयS/मानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभि नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञवम् । असर्वज्ञवाच्च तीर्थान्तरीयाणां मध्ये न कश्चिदप्यनीदृशय-अनन्यसदृशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यहनेवातीतानागतवर्तमानत्रिकालवर्तिनोर्थस्य खाख्यातेति न तत्र तत्रेति स्थितम् ॥२॥ साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञखमहतश्च सर्वज्ञवं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह-तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिक पदार्थजातं तथा मिथ्याखाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृला संसारकारणलेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातंखाख्यातं, तीर्थिकवचनं तु 'न हिंसाद्भूतानीति भणिखा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकखान्न वाख्यातं भवति, स चाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सद्भ्यो हितखाच सत्यः। 'खाख्यातः तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो ह्यनृतकारणं ते च तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति॥ कृला तद्वचो भूतार्थप्रतिपादकं, तथा चोक्तम्-“वीतरागा हि सर्वज्ञा, मिथ्या न बुवते वचः । यस्मात्तसादचस्तेषां, eeeeeeeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy