________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a nmandir
18| तस्यासौ सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो 'नायकः' प्रणेता, यथावस्थितवस्तुखरूपप्रणेतृवं च परिज्ञाने सति भवत्यतस्तदु-18| १५आदासूत्रकृताङ्गं शीलाङ्का
पदिश्यते–'सर्वम्' अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्च मनुते-असौ जानाति नीयाध्य० चार्यायवृ.
सम्यक् परिच्छिनत्ति तत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौ-त्राणकरणशीलः, त्तियुतं यदिवा-'अयवयपयमयचयतयणय गता' वित्यस्य धातोर्घञ्प्रत्ययः, तयनं तायः स विद्यते यस्यासौ तायी, 'सर्वे गत्यर्थी
ज्ञानार्था' इतिकृखा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं भवति, न च कारणमन्त॥२५४||
रेण कार्य भवतीत्यत इदमपदिश्यते-दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणे (न)तु घातिचतुष्टयस्यान्तकृद् द्रष्टव्य इति ॥१॥ | यश्च घातिचतुष्टयान्तकृत्स ईदृग्भवतीत्याह-विचिकित्सा-चित्तविप्लतिः संशयज्ञानं तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्य
यमिथ्याज्ञानानामविपरीतार्थपरिच्छेदादन्ते वर्तते, इदमुक्तं भवति-तत्र दर्शनावरणक्षयप्रतिपादनात ज्ञानाद् भिन्नं दर्शनमित्युक्तं ।। | भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोरचिन्त्यशक्त्युपेतखात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणक्षयप्रतिपादनेन निरस्तो भवतीति, यश्च घातिकर्मान्तकृदतिक्रान्तसंशयादिज्ञानः सः 'अनीदृशम्' अनन्यसदृशं || जानीते न तत्तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयरूपेणैव विज्ञानेन विद्यत इति, इदमुक्तं भवति-न तज्ज्ञानमित-18 रजनज्ञानतुल्यम् , अतो यदुक्तं मीमांसकैः--सर्वज्ञस्य सर्वपदार्थपरिच्छेदकलेऽभ्युपगम्यमाने सर्वदा स्पर्शरूपरसगन्धवर्णशब्दपरिच्छे- ॥२५४॥ दादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यं, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि शेषहेतोरभावादह-| त्येव संप्रत्ययो नोपपद्यते, तथा चोक्तम्-"अह(रुहान यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा? । अथोभावपि सर्वज्ञौ, मतभेदस्तयोः
For Private And Personal