________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailash
l
anmandir
ति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम् , एवं विधो बहुप्रकारो भावादिद्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां बङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोदेशकस्तस्यापि 'सुर्य'ति पदं तस्यापि सु-12 कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आयुद्देशकश्लोकपादपदवर्णादिष्टव्य इति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
जमतीतं पडुपन्नं, आगमिस्सं च णायओ। सवं मन्नति तं ताई, सणावरणंतए ॥१॥ अंतए वितिगिच्छाए, से जाणति अणेलिसं। अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सच्चेण संपन्ने, मित्तिं भूएहिँ कप्पए ॥३॥ ४॥ भूएहिं न विरुज्झेज्जा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सिं जीवितभावणा ॥४॥ अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुं, यश्च | यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भापितुमर्हति नान्य इति । परम्परमूत्रसंबन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतदुध्येतेत्यादिकः संबन्धोऽपरमूत्रैरपि स्वबुवा लगनीय इति । तदेवं प्रतिपादितसंबन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते-यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावि
9200000000000000202020
For Private And Personal