________________
Shri Mahaviridhana Kendra
सूत्रकृताङ्गं शीलाङ्का
चाययतियुतं
॥२५३॥
www.kobatirth.org
Acharya Shri Kailashsagarsanmandir
कुर्वते, तस्था अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इदमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेर्निक्षेपं कर्तुकाम आह- आदेर्नामादिक तुर्धा निक्षेपः, नामस्थापने सुगमतादनादृत्य द्रव्यादिं दर्शयति — द्रव्यादिः पुनः 'द्रव्यस्य' परमाण्वादेर्यः 'स्वभावः' परिणतिविशेषः 'खके स्थाने' स्वकीये पर्याये प्रथमम् - आदौ भवति स द्रव्यादिः, द्रव्यस्य | दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथ| ममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः १, तथाहि —– उत्पादविनाशौ भावाभावरूपौ वस्तुधर्मों वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च | दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि - तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं द्रव्यस्य | प्राधान्येन विवक्षितखादिति । साम्प्रतं भावादिमधिकृत्याह - भावः - अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधराद| यो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् 'पञ्चवि - धः पञ्चप्रकारो भवति, तद्यथा- प्राणातिपातविरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति, तथा 'आगमओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा - यदेतद्गणिनः - आचार्यस्य पिटकं सर्वस्वमाधारो वा तद्वादशाङ्गं भव
For Private And Personal
१५ आदा नीयाध्य०
॥२५३॥