________________
Shri Mariyat Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
Granmandir
eeeeeeeeeeeeeeee
एवमदुग्धवस्तोकदुग्धवरूपावपि हेतू न गोलाभावं साधयतः, उक्तन्यायेनैव दार्शन्तिकयोजना कार्येति ॥ ३५॥ १४ ॥ साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह
संति पंच महन्भूया, इहमेगेसि आहिया । आयछट्टो पुणो आहु, आया लोगे य सासए ॥१५॥ 'सन्ति' विद्यन्ते 'पञ्च महाभूतानि' पृथिव्यादीनि 'इह' असिन्संसारे 'एकेषां वेदवादिना सांख्यानां शैवाधिकारिणांच, एतद् आख्यातम् आख्यातानि वा भूतानि, ते च वादिन एवमाहुः-एवमाख्यातवन्तः, यथा 'आत्मषष्ठानि आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयतिआत्मा 'लोकश्च पृथिव्यादिरूपः 'शाश्वत:' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाचाकाशस्येव शाश्वतत्वं, पृथिव्यादीनां
च तद्रूपाप्रच्युतेरविनश्वरखमिति ॥ १५॥ शाश्वतखमेव भूयः प्रतिपादयितुमाह& दुहओ ण विणस्संति, नो य उप्पज्जए असं । सवेऽवि सबहा भावा, नियत्तीभावमागया ॥१६॥ & 'त' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत' इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां खत एव |
निर्हेतुको विनाशः, तथा च ते ऊचुः-'जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातंश्च न च ध्वस्तो, नश्येत्पश्चात्स | केन च ॥१॥" यथा च वैशेषिकाणां लकुटादिकारणसानिध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोन
१ वैशेषिकाणांप्र.।
seeeeeeeeeeeeeeeeeeeeeeeeeeet
For Private And Personal