________________
Shri Mana
f
adhana Kendra
www.kobatirth.org
Acharya Shri Klasse 9
amani
9599999900
कराज्ञया सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम् अवदातं पूर्वापराविरुद्धं निरवयं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविपये चापवादं तथा स्वपरसमययोर्यथाखं वचनमभिवदेत् । एवं चाभियुञ्जन् भिक्षुः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्गमाणो निर्दोषं वचनमभिसन्धयेदिति ॥ २४ ॥ पुनरपि भाषाविधिमधिकृत्याह
अहाबुइयाई सुसिक्खएज्जा, जइजया णातिवेलं वदेज्जा । से दिट्टिमं दिढि ण लूसएजा, से जाणई भासिउं तं समाहिं ॥ २५॥ अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति ॥ २६ ॥ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवके कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ॥ ॥ २७॥ तिबेमि ॥ इति ग्रन्थनामयं चउदसमज्झयणं समत्तं ॥ ( गाथाग्रं ५१८) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्टु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया बनवरतमुद्युक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद् , अतिप्रसक्तलक्षणनिवृत्तये खपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलङ्घच नातिवेलं वदेदअध्ययनकर्तव्यमर्यादां नातिलङ्घयेत्स(दस)दनुष्ठानं प्रतिव्रजेद्वा, यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंगुण
कन्छ99990
For Private And Personal