________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
Meeeeeeeeeeeeeeeee
निर्ममखादल्पसत्त्वैर्दुरनुष्ठेयखाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं-संयम 'विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत् | तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य 'न तुच्छो भवेत् नोन्मादं गच्छेत् , तथा 'न विकत्थयेत्। नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्ययेत् नात्यन्तं चमढयेत्, तथा 'अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत् , तथा सर्वदा 'अकषायः' कषायरहितो भवेद् 'भिक्षुः' साधुरिति ॥ २१ ॥ । साम्प्रतं व्याख्यानविधिमधिकृत्याह-'भिक्षुः साधुर्व्याख्यानं कुर्वन्नग्दिर्शिखादर्थनिर्णय प्रति अशङ्कितभावोऽपि 'शङ्कत
औद्धत्यं परिहरनहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्वं न कुर्वीत किंतु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थ न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं-पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः-स्याद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद, अथवा सम्यगान विभज्यपृथककृखा तद्वादं वदेत , तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया बनित्यवादं वदेत , तथा खद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्-"सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयात् । असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥१॥" इत्यादिकं विभज्यवादं वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह-भाषयोः-आद्यचरमयोः सत्यासत्यामृषयोदिक भाषाद्विकं तद्भापाद्वयं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा 'व्यागृणीयात्' भाषेत, किंभूतः सन् ?-सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणी
For Private And Personal