SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahav radhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeee तद बद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्सार्थस्य पुष्ट्यर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य सत्पथोपदेटः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीरः'। तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा-अहमनेन मिथ्याखवनाजन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहंमि अग्गिजालाउलंमि जह णाम डज्झमाणमि । जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस साहइ सो तस्स जणो परमबंध ॥२॥॥११॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ 'नेता' नायकोष्टव्यादौ स्वभ्यस्तप्रदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतखात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविभूते पाषाणदरिनिम्नोन्नतादिके मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति ॥१२॥ |एवं दृष्टान्तं प्रदश्य दार्शन्तिकमधिकृत्याह गेहेऽग्निज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबान्धवः ॥ १॥ यथा वा विषसंयुक्तं भकं स्निग्धं इह भोक्तुकामस्य योऽपि सदोषं साधयति स तस्य परमबन्धुर्जनः ॥२॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy