________________
Shri Mahav
www.kobatirth.org
a dhana Kendra
y armandir
Acharya Shri Kailassag
टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किञ्चित्धर्मसंबद्धं ब्रूयात् , किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयति-'एकस्य' असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' गमनं पर| लोके भवति, तथा आगतिः-आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च-"एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।। | जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥" इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौन:-संयमस्तेन तत्प्रधानं वा ब्रूयादिति ॥ १८॥ किश्चान्यत्-'वयम्' आत्मना परोपदेशमन्तरेण | 'समेत्य' ज्ञाखा चतुर्गतिकं संसारं तत्कारणानि च मिथ्याखाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्का| रणानि च सम्यग्दर्शनज्ञानचारित्राण्येतत्सर्व खत एवावबुध्यान्यस्माद्वाऽऽचार्यादेः सकाशाच्छुखाऽन्यसै मुमुक्षवे 'धर्म श्रुतचारित्राख्यं भाषेत, किंभूतं -प्रजायन्त इति प्रजा:-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति । । | उपादेयं प्रदर्य हेयं प्रदर्शयति-ये 'गर्हिता. जुगुप्सिता मिथ्याखाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त 8 | इति सनिदानाः प्रयुज्यन्त इति प्रयोगा-व्यापारा धर्मकथाप्रबन्धा वा ममामात्सकाशाकिश्चित् पूजालाभसंस्कारादिकं भविष्यती-| | त्येवंभूतनिदानाऽऽशंसारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निव्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया मर्मवेधिनः सुधीरधर्माणो वाकण्टकान् 'न सेवन्ते' न ब्रुवत इति ॥१९॥ किश्चान्यत्-केषाश्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां खदर्शनाऽअहिणां 'तर्कया' वितर्केण स्वमतिपर्यालोचनेन 'भावम्' अभिप्रायं दुष्टान्तःकरणवृत्तिखमबुद्धा कश्चित्साधुःश्रावको वा
For Private And Personal