________________
Shri Mahal
Yadhana Kendra
www.kobatirth.org
Acharya Shri KailashX
Gyanmandir
सूत्रकृताङ्गं
शीलाङ्काचायायवृ. त्तियुतं ॥२३॥
| यथावस्थितो धर्मः-श्रुतचारित्राख्यो येन स तथा, स चैवंभूतः कचिदवसरे ग्राम नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थ-11
१३ याथा | मसावुत्तमधृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणांच-उद्गमदोषादिकां तत्परिहारं तथ्याध्य० विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः अनध्युपपन्नः सम्यग्विहरेत् , तथाहि-स्थविरकल्पिका द्विच-1 खारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानां तु पञ्चखभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः-'संसट्ठमसंसट्टा उद्धड तह होति अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥' अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा बनेषणेत्येवमेषणा| नेषणाभिज्ञः कचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति॥१७॥ तदेवं भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्मण एषणानेषणाभिज्ञस्यानपानादावमूर्छितस्य सतः कचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेर| प्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पधेत तां चोत्पन्नामसौ भिक्षुः संसारखभावं परिगणय्य तिर्यकारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरियेवं विचिन्त्याभिभवेद् , अभिभूय चासावेकान्त| मौनेन व्यागृणीयादित्युत्तरेण संबन्धः, तथा रतिं च 'असंयमें सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोयुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि-बहवो जनाः-साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात् , स च बहुजन एकाकी वा केनचित्पृ१ संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमिका ॥ १ ॥
Eeeeeeeeee
व सुदृष्टधर्मण एषणानेषणा
रातररतिश्च संयमे
सान्तप्रान्तवल्लच
For Private And Personal