________________
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
yanmandir
भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षुः साधुः, तथा सुष्टु साधु-शोभनं हितं मितं प्रियं वदितुं शीलमस्येत्यसौसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितखेनोत्पन्नप्रतिभवं तत्प्रतिभानं विद्यते यस्यासौ प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेष प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासनप्रतिभतया (ऽवेत्य) यथायोगमाचष्टे, तथा 'विशारद: अर्थग्रहणसमर्थो बहुप्रका| रार्थकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा-अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञा, तथा सुष्ठ विविध भावितो-धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिगुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात् , तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोस्कर्षवानन्यं जनं स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि-किमनेन वाककुण्ठेन दुर्दुरूढेन कुण्डिकाकासकल्पेन खमूचिना कार्यमस्ति ? कचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्- "अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण ॥१॥" इत्यादि ॥१३॥ साम्प्रतमेतदोषाभिधित्सयाऽऽह'एवम्' अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समाधिं' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः खप्रज्ञया भिक्षुः 'उत्कर्षेद' गवं कुर्यात् , नासौ समाधि
Reseeeeeeeeeeee
For Private And Personal