SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir ocesseD000000 कारं शोधितः-कुमार्गप्ररूपणापनयनद्वारेण निर्दोषता नीतो विशोधितः सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं । मोक्षमार्ग 'ते' खाग्रहग्रहास्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति । ये चैवंभूता आत्मोत्कर्षात्ख- रुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थ व्युदस्यान्यथा 'व्यागृणीयुः व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति । आत्मभावव्याकरणं च महतेऽनायेति दर्शयति–'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः-"सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥१॥" यदिवा गुरुशुश्रूषादिना सम्यग्रज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानां गुणानामनायतनमसौ भवति, कचित्पाठः-'अट्ठाणिए होंति बहूणिवेस'ति अस्थायमर्थः-अस्थानम्-अभाजनमपात्र-18 मसौ भवति सम्यग्ज्ञानादीनां गुणानां, किंभूतो :-बहुः-अनर्थसंपादकवेनासदभिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानामस्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति, किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्ग-१ हीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृषावादं वदेयुर्यथाऽहं १ शुश्रूषते प्रतिपृच्छति शृणोति गृह्णाति ईहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥१॥२ ज्ञानहीनलाविर्भावशकया । । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy