________________
Shri Maharadhana Kendra
सूत्रकृताङ्गं
शीलाङ्काचार्ययवृ
तियुतं
॥२३२॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
| प्रकारं स्वभावं फलं च पश्चार्धेन दर्शयति- 'सतः' सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो 'धर्म' श्रुत| चारित्राख्यं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम्' उद्युक्तविहारित्वं तथा 'शान्ति' निर्वृतिमशेष कर्मक्षयलक्षणां 'करिस्सामि | पाउ'त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, [ग्रन्थाग्रं. ७००० ] तथा 'असतः' अशोभनस्य परतीर्थिकस्य गृहस्थस्य वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म- पापं तथा 'अशीलं ' कुत्सितशील मशान्तिं च-अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति । | अत्र च सतो धर्म शीलं शान्ति च प्रादुष्करिष्यामि असतश्चाधर्ममशीलमशान्ति चेत्येवं पदघटना योजनीया, अनुपात्तस्य [च] | चशब्देनाक्षेपो द्रष्टव्य इति ॥ १ ॥ जन्तोर्गुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आह- 'अहोरा |त्रम् ' अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो' वा तीर्थकृद्भ्यो 'धर्म' श्रुतचारित्राख्यं प्रतिलभ्य संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकृदाद्या- | ख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् 'अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निहवा बोटिकाश्च स्वरुचिविरचितव्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति कुमार्गं प्ररूपयन्ति, ब्रुवते च - असौ सर्वज्ञ एव न भवति यः क्रियमाणं | कृतमित्यध्यक्षविरुद्धं प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रदधानाः श्रद्धानं कुर्वन्तोऽ| प्यपरे धृतिसंहननदुर्बलतया यथाऽऽरोपितं संयमभारं वोदुमसमर्थाः कचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्तस्तं ' शास्तारम् ' अनुशासितारं चोदकं पुरुषं वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति ॥ २ ॥ किञ्च - विविधम् - अनेकप्र१ इवा० प्र० । २. आत्मनेपदमनित्यं तेन परस्मायपि सिवेः, ध्वनितं चेदं धातुपारायणे जग् दीप्तौ इत्यादी ।
For Private And Personal
१३ याथा तथ्याध्य०
॥२३२॥