SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Maha WingAradhana Kendra सूत्रकृताङ्ग शीलाङ्काचाय तियुतं ॥ २१ ॥ www.kobatirth.org Acharya Shri Kailashsagars@mandir कुर्वन्निति स्वतत्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानुपपत्तिः, अत एव हेतोः कारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्वात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपि च स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन [ जपास्फटिकन्यायेनच ] भुजिक्रियां करोति तथाऽपि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति- 'सर्व्वं कुवं ण विज्जइ'त्ति 'सर्वां' परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम् — “अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने" इति । 'एवम् अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वशब्देभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भताः ' प्रगल्भवन्तो धार्श्ववन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति यथा - "प्रकृति: करोति, पुरुष उपभुङ्क्ते, तथा | बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते" इत्याद्यकारकवादिमतमिति || १३|| साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह जे उ वाइणो एवं लोए तेसिं कओ सिया !। तमाओ ते तमं जंति, मंदा आरंभनिस्सिया॥१४॥ तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एव' मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तम्- 'यथा न शरीराद्भिन्नोऽस्त्यात्मेति, तदसङ्गतं यतस्तत्प्रसाधकं प्रमाणमस्ति तच्चेदम् — विद्यमान कर्तुकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकर्तृकं दृष्टं यथा घटः, यच्चाविद्यमानकर्तृकं For Private And Personal १ समयाध्ययने अकारक वादिख. ॥ २१ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy