SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Manila Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga r anmandir ते । न विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम्, एषमा-1 त्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति, तथा यथाऽदर्श खच्छखात्प्रतिविम्बतो बहिःस्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः खस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसनेव तथा भ्रान्ति समुत्पादयतीति । अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, असाभिस्तु सूत्राऽऽदर्शेषु चिरंतनटीकार्या| चादृष्टवान्नोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः, तत्कथमेतज-18 गद्वैचित्र्यं घटते, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति, अत्रोच्यते, स्वभावात, तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति धूपाद्यामोदं च, अन्यसिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः । पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स तागविधावस्थाविशेष इत्येवं स्वभावाजगद्वैचित्र्य, तथा चोक्तम्-"कण्टकस्य च तीक्ष्णलं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तज्जीवतच्छरीरवादिमतं गतम्।।१२॥ इदानीमकारकवादिमताभिधित्सयाऽऽह कुवं च कारयं चेव, सनं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगम्भिआ ॥ १३ ॥ परो दरिद्रोऽन्यः सुभगोऽपरो दुर्भमा चिच्छिलाशकले प्रतिमारूप eeeeeeeeeeeeeeeeeeeeeees या For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy