________________
Shri Maharadhana Kendra
सूत्रकृताङ्ग शीलाङ्का चाययतियु
॥ २० ॥
www.kobatirth.org
Acharya Shri Kailashsagarspringmandir
भवन्तीति तात्पर्यार्थः तथाहि तदागमः - " विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति, | नतु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणत्ता नि | धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा तेभ्यश्चाभिन्न इत्ययं विशेषः ॥ ११ ॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह
नत्थ पुणे व पावे वा नत्थि लोए इतो वरे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥ १२ ॥
'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति 'अतः ' अस्माल्लोकात् 'परः' अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह - 'शरीरस्य' कायस्य 'विनाशेन' भूतविघटतेन 'विनाशः' अभावो 'देहिनः' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा, पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्रार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-यथा जलबुद्बुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कचिदात्मेति, तथा यथा कदलीस्तम्भस्य बहिस्वगपनयने क्रियमाणे त्वमात्रमेव सर्वं नान्तः कश्वित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मात्रं विहाय नान्तः | सारभूतः कचिदात्माख्यः पदार्थ उपलभ्यते, यथा वाडलातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोपि
१ व भिन्न प्र० ।
For Private And Personal
१ समया ध्ययने त ज्जीवतच्छ.
रीवा.
॥ २० ॥