________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
r a
घटादिष्वपि चैतन्योपलब्धिः स्यात् , न चैवं, तसाचैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद् , एकसादात्मनोऽभिन्नत्वात , || तथा पञ्चेन्द्रियस्थानानां-पश्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तो सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्ययेक
एवात्मा स्यादिति ॥१०॥ साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह& पत्तेअं कसिणे आया, जे बाला जे अपंडिआ। संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥११॥
तजीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैक 8| शरीरं प्रति प्रत्येकमात्मानः 'कृत्लाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञा ये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे |
पृथग् व्यवस्थिताः, नोक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयत्वेनात्मबहु| त्वमार्हतानामपीष्टमेवेत्याशङ्ख्याह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि-कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते इत्येतदेव दर्शयति"पिच्चा न ते संती'ति प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कचिदात्माख्यः पदार्थोऽस्तीति भावः। किमित्येवमत आह–'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः-'न सन्ति' न विद्यन्ते 'सत्त्वाः ' प्राणिन उपपातेन निवृत्ता औपपातिका-भवाद्भवान्तरगामिनो न १ विचटने प्र० । १० पलक्ष्यते प्र.।
For Private And Personal