________________
Shri Mahaya Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaganu Ganmandir
तदादिमंत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापक निवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तचद्विद्यमानाधिष्ठातृकं दृष्टं यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह यत्र यत्राऽऽदानादेय सद्भावस्तत्र तत्र विद्य मान आदाता - ग्राहको दृष्टः, यथा संदंशकाय स्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता - ग्राहकः स | तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेष विपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुवेधतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सत्त्वा औपपातिका' इति, तदप्ययुक्तं यतस्तदहर्जात बालकस्य यः स्तनाभिलापः सोऽन्याभिलाषपूर्वकः, अभिलापत्वात्, कुमाराभिलापवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञानवत्, तथाहि - तदहर्जी तबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावनोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सम्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती' ति, तत्राप्ययमर्थो - 'विज्ञानघनो' विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थाये 'ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण
१ नाम्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्त्वम् ।
For Private And Personal