SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org a nmanat Acharya Shri Kailas | ग्वादित्वं कसानाभ्युपगम्यते ?, तदुक्तपदार्थानामेवाघटमानखात् , तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनह शान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेखाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय४ (निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाचतुर्दा, | तत्रेन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्ष, तदत्रेन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यतं, ज्ञानं, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्तेः, अव्यभिचारि तद्धि द्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षतान बुध्य(युज्य)ते, तथाहि-यत्रात्माऽर्थग्रहणं प्रति साक्षायाप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम् , एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति विधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताछूता जगतीति यदिवा देवदत्तादौ गतिपूर्विका स्थानात् स्थानान्तरावाप्ति दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्य प्रति व्यभिचा-10 रात् , यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्-"अन्यथाऽनुपपन्नलं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नख, यत्र तत्र त्रयेण किम् ? ॥१॥" अपिचप्रत्यक्षस्याप्रामाण्ये तत्पूर्वकसानुमानस्साप्रामाण्यमिति । प्रसिद्धसाधोत्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ञास१ जनानां यात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तूत्पद्यते । २ सुखस्यापीन्द्रियार्थोत्पन्नस्वात् । ३ इन्द्रियार्थोत्थं । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy