________________
Shri Maharadhana Kendra
सूत्रकृताङ्गं
शीलाङ्का:चार्ययवृ
तियुतं
॥२२४॥
www.kobatirth.org
Acharya Shri Kailashsadayanmandir
'सत्त्वानां' स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टनां - जातिजरामरणरोगशोककुतां शरीरपीडां चशब्दात्तदद्भावोपायं यो जानाति इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभ्रुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोद्यरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति यः कर्मबन्धहेतून् तद्विपर्यासहेतूंच तुल्यतया जानाति, तथाहि - "यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेश हेतवः || १||" स एव परमार्थतो 'भाषितुं' वक्तुमर्हति, किं तद् ? इत्याह- क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि - जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं तथाऽऽश्रवसंवरौ खरूपेणैवोपात्तौ दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि तद विनाभाविखादुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यथैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्य१ आदिनाऽशाश्वतं । २ अजीवपक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति । ३ वैषयिकसुखस्य दुःखरूपत्वान्न दुःखस्य पुण्याविनाभावत्वानुपपत्तिः । ४ ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादित्वशङ्का ।
For Private And Personal
१२ समवसरणाध्य०
॥२२४॥