SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahalifaradhana Kendra www.kobatirth.org Acharya Shri Kailasha anmandir तिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना । यश्च 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं' वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात् , चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो| जानाति, तथा ह्यागमः-"णेरइया दवट्ठयाए सासया भावयाए असासया" एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणंशाश्वतं संसारः-अशाश्वतस्तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां 'मरणं च आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सवास्तेषामुपपात यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं-पुनस्तिर्यमनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥ २०॥ किश्च अहोऽवि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे । णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ॥२२॥ तिबेमि । इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं ॥ (गाथाग्र० ५६८) १ नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy