________________
Shri Mahaviradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
'श्रमणाः' साधवो 'ब्राह्मणाः संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा कचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति एतच्च कथयन्ति - यथा यत्किश्चित्संसारान्तर्गतानामसुमतां दुःखम् - असातोदयखभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम् - आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्- "वो पुढकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥ १ ॥” एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा - विद्या - ज्ञानं चरणं - चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति तथा चोक्तम् — “क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् । निरस्यता केशसमूहशान्तये, तया शिवायालिखितेव पद्धतिः ॥ १ ॥ ॥ ११ ॥ किञ्च - 'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायकाः - प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह - 'मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथयन्ति प्रजना - प्रजायन्त इति प्रजाः प्राणिनस्तेषां किम्भूतं ?, हितं सद्गतिप्रापक मनर्थनिवारकं च, किञ्च चतुर्दशरज्ज्वात्मके लोके पञ्श्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा - यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि - तत्र तीर्थकराहारकवर्ज्याः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति,
१ नेदं प्रत्यन्तरे । २ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकं । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥
For Private And Personal