________________
a dhana Kendra
Shri Mahav
Acharya Shri Kailashag
www.kcbatirth.org
a nmandir
तियुतं
सूत्रकृताङ्गं 18 प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्था(स्या)यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च १२ समवशीलाका- प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्व वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता-सर्वमिदं
सरणाध्य० चाीय- | मायाखप्नेन्द्रजालकल्पमिति, तदसत् , यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् , यश्च मायां
प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यले तयोरेवाभावात्कुतस्तव्यवस्थितिरिति ?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्था-18 ॥२१७॥
प्यते तस्या अभावे तस्याप्यभावः स्यात्ततः खप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमे च सर्वशून्यबहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात् , तथा चोक्तम्-"अणुहूयदिवचिंतिय सुयपयइवियारदेवयाऽणूया । सुमिणस्स निमित्ताई पुणं पावं च णाभावो ॥१॥" इन्द्रजालव्यवस्थाऽप्यपरसत्यखे सति भवति, IST | तदभावे तु केन कस्य चन्द्रजालं व्यवस्थाप्येत ?, द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकसिंश्च चन्द्रमस्युपलंभकसद्भावे च घटते न
| सर्वशून्यले, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्र-| 18 तिपाघस्यैवार्थस्वाभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं सत्र शशमस्तकसमवायि विषाणं
नास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ॥८॥ अनिरुद्धप्रज्ञास्तु यथावस्थितार्थेवे- | ॥२१७॥ दिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनखैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्त
१ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १॥२ बेन्द्रजालं प्र० ।
For Private And Personal