________________
Shri Maha
r adhana Kendra
www.kcbatrth.org
Acharya Shri Kailas
a
nmandit
|न्ति, ततश्च बन्धमोक्षसद्भावे सति खकीयया गिरा सक्रियखे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण
बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां स्ववाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्यु| पगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाचाक्रियामेवाभ्युपगमयन्तः स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं खवाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च खाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितं । यदिवा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुदृष्टान्तैर्व्याकुलीक्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया 'मुम्मुई होइ'त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाचा| यमों द्रष्टव्यः, तद्यथा-मूकादपि मूको मूकमूको भवति, एतदेव दर्शयति-स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी ||४| | तत्प्रतिषेधादननुवादी, सद्धेतुभियाकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च । | स्वपक्षं प्रतिपादयन्ति, तद्यथा-'इदम्' असदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायि-| | तया निष्प्रतिबाधं पूर्वोपराविरुद्धमित्यर्थः, इदं चैवंभूतमपि सदि(त्कमि)त्याह-द्वौ पक्षावस्येति द्विपक्षं-सप्रतिपक्षमनैकान्तिकं | पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा प्राग्दर्शितमेव, यदिवेदमसदीयं दर्शनं द्वौ पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात , तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव पुष्पकल्पां स्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतां वेदनां | समनुभवन्तीति, एवमन्यदपि कर्मोभयवेद्यमभ्युपगम्यते. तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत् , तथेदमेकः पक्षोऽस्येत्येक
For Private And Personal