SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmandit 303929 सरणाध्य० सूत्रकृताङ्गं तिषेधं कुर्वाणाः 'सम्मिश्रीभावम्' अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, वाशब्दात्प्रतिषेधे प्रतिपाद्यस्तिशीलाङ्का- त्वमेव प्रतिपादयन्ति, तथाहि-लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽचाीयवृ- त्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययो त्तियुत वा । बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा-"गन्ता च नास्ति कश्चिद्गतयः षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गतिः ॥२१५॥ स्वाच्छुतिः कथं शोभना बौद्धी ॥१॥" तथा-'कर्म [च] नास्ति फलं चास्ती' त्यसति चात्मनि कारके कथं षड्गतयः, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान्न नानागतिसंभवः, सर्वाण्यपि कर्माण्यबन्ध नानि प्ररूपयन्ति वागमे, तथा पश्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा-'मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । ४ अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ॥१॥ आवीचिनरकं यान्ति । एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं | || स्यात् , तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानि च न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं ॥ कर्मवत्वं चावेदयति, तथा 'गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसदृशाः। मृगतृष्णानीहाराम्बुचन्द्रिकालातचक्रसमाः॥१॥ इति भाषणाच स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । यदिवा-नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति, तथ चोक्तम्-“यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति ? । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥१॥" इत्यादि, तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तिखमेव प्रतिपादयन्ति ॥ तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भाव प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादय ॥२१५॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy