SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviadhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्यीयतियुतं ॥२१०॥ www.kobatirth.org Acharya Shri Kailashsad yanmandir चोक्तम्- " प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - "यथा यथा | पूर्वकृतस्य कर्मणः, फलं निधानस्यमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते || १||” तथा “स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ १ ॥ |" इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्यान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तम्- " न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्वः प्राप्तुमर्हति ॥ १ ॥" तथा "उद्यमाञ्चारु चित्राङ्गि !, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २ ॥ तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्म पुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टिले - | नाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवाद वैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि — अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपहुवन् मिध्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् १, तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सि| द्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिध्यावादित्वेनोपन्यस्तः तत्कथमिह सम्यग्दृष्टिलेनोच्यत इति उच्यते स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपर निरपेक्षतयैकान्तेन कालादीनां कारणलेनाश्रयणान्मिथ्याखं, तथाहि - अस्त्येव जीव इत्येवमस्तिना सह जीवस्य | सामानाधिकरण्यात् यद्यदस्ति तत्तञ्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रवणादिह सम्यक्त्वमभिहितं, तथा कामदीनामपि For Private And Personal १२ समवरणाध्य० क्रियादिवादिनां स्वरूपं ॥२१०॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy