________________
Shri Mahall@
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
मिलिता द्वात्रिंशदिति, उक्तं च "वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितषु सदा ॥१॥" सर्वेऽप्येते क्रियाक्रियाज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं वादिनां मतभेदसंख्यांप्रदाधुना तेषामध्ययनोपयोगिखं दर्शयितुमाह-'तेषां पूर्वोक्तवादिनां मतम्-अभिप्रायस्तेन यदनुमतंपक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' असिन्नध्ययने गणधरैः, किमर्थमिति | दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमसिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति । इदानीमेतेषां सम्यग्रमिथ्यालवादिलं विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग्-अविपरीता दृष्टिः-दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यग्दृष्टिः, कोऽसावित्याह-क्रियाम्-अस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् | 'अस्थिति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य निरवधारणतया] सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि-अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्-"कालः पचति भूतानी"त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, वो भावः खभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तबामूर्तखानां स्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरखापरखादिवरूपापादनादिति, तथा चोक्तम्-"कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणबेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतखात्, तथा|
seekeeeeeeeeeees besedememes
For Private And Personal