________________
Shri Mah
a
dhana Kendra
www.kobatrth.org
Acharya Shri Kailassage
संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (य) केवलिणो मयं ॥ ३८॥/31
तिबेमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६) । IT 'अथ' भावमार्गप्रतिपत्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं स्पर्शा:-परीपहोपसर्गरूपाः 'उच्चावचा' गुरुलघवो नानारूपा वा || 10 'स्पृशेयुः' अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारखभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकुलैर्विहन्यात, नैव संयमा-II
नुष्ठानान्मनागपि विचलेत, किमिव , महावातेनेव महागिरिः-मेरुरिति । परीपहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासव
शेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहजोतं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च, त|| तोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाविहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात शनैः ॥४
शनैः परिषहोपसर्गजयं विधत्त इति ॥३७॥ साम्प्रतमध्ययनार्थमुपसंजिहीपुरुक्तशेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः-सम्यग्दर्शनज्ञानवान् , तथा धी:-बुद्धिस्तया राजत इति धीरः परीपहोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत् , तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाङ्केच 'एतत् यत् मया प्राक् प्रतिपादितं तत् 'केवलिन:' सर्वज्ञस्य तीर्थकृतो मतं । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्खाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्चितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि , केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।।
eeeeeeeeeeeeeeeeeeee
एeeeeeeeeeeeeeee
-04
For Private And Personal