________________
Shri Mahav
a dhana Kendra
www.kobarth.org
Acharya Shri Kah
a
mandir
गृहम्-आवसथं खतोऽन्येन वा न छादयेदुपलक्षणार्थवादस्यापरमपि गृहादेरुरगवत्परकृतविलनिवासिखात्संस्कारं न कुर्यात् ।। अन्यदपि गृहस्थकर्तव्यं परिजिहीर्घराह-प्रजायन्त इति प्रजास्तासु-तद्विपये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् , एतदुक्तं भवति-प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजाः-स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात्' परित्यजेदिति ॥ १५॥ अपिच-ये केचन असिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापिखादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अमृर्तवव्यापिखाभ्यामात्मनोऽक्रियखमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियले सति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाद्दर्शनेऽपि | 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थ जलावगाहनरूपे वा 'आरम्भे' सावधे 'सक्ता अध्युपपन्ना गृद्धास्तु लोके मोक्षकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किश्चान्यत्
पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुछ देहं, पवडती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अहेसु मूढे अजरामरेव ॥ १८॥ जहाहि वित्तं पसवो य
सत्रक्र.३३||
For Private And Personal