________________
Shri Mahavir
Aadhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a nmandir
eceneceseeeeeeeeeeeeeeee
नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्वार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमखादनादृत्य द्रव्यादिकमधिकृत्याह-पश्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथाखं प्राप्तौ सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा बसमाधिरिति, यदिवा द्रव्ययोद्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशकरयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस यसिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यसिन्वा क्षेत्रे समाधिावण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां, यस्य वा यावन्तं कालं समाधि| भवति यस्मिन्वा काले समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि अधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाचतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्य
चरणे-चारित्रेव्यवस्थितः-समुद्युक्तः साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषुदर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति-यः सम्यश्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो | वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधौ व्यवस्थितो जिनवचन|भावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथापूर्व श्रुतमधीते तथा तथाऽतीव भाव
सूत्रकृ. ३२
For Private And Personal