________________
Shri Mahavir Jaf Sadhana Kendra
सूत्रकृताङ्ग
शीलाङ्काचार्ययवृतियुतं
॥१८०॥
eseser
www.kobatirth.org
Acharya Shri Kailashsaganmandir
उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूयं अणेसणिज्जं च तं विज्जं परिजाणिया ॥ १४ ॥ आसूणिमक्खिरागं च, गिद्धुवधायकम्मगं । उच्छोलणं च कक्कं च तं विज्जं परिजाणिया ॥ १५ ॥ संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च तं विज्जं परिजाणिया ॥ १६ ॥
'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं 'स्नानं च' शरीरप्रक्षालनं देशतः सर्वतश्च तथा 'दन्तप्रक्षालनं' कदम्बकाष्ठादिना तथा 'परिग्रहः' सच्चित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतैरभ्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्वं कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किञ्चान्यत् - साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं 'पामिचं 'ति साध्वर्थमन्यत उद्यतकं यद्वृह्यते तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थं यद्गृहस्थेनानीयते तदाहृतं, तथा 'पूय' मिति आघाकर्मावयवसम्पृक्तं शुद्धमप्याहारजातं पूति भवति, किं बहुनोक्तेन ?, यत् केनचिदोषेणानेपणीयम् - अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति ॥ १४ ॥ किञ्च येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति - बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आणित्ति - श्लाघा यतः श्लाघया क्रियमाणया आ - समन्तात् शूनवच्छूनो लघुप्रकृतिः कश्चिद्दर्पाध्मातखात् स्तब्धो भवति, तथा अक्ष्णां 'रागो' रञ्जनं सौवीरादिकमञ्जनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'मृद्धिं गा तात्पर्यमासेवा, तथोपघातकर्म – अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति
For Private And Personal
९ धर्माध्ययनं.
॥१८०॥