SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Afadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eleseseseeeeeeeeeeeeeeeeeeee |मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलखात स्थण्डिलवद्भवति स स्थण्डिल:-क्रोधः, यसिंश्च सत्यूचे श्रयति जात्यादिना दोध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसखानपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुखात् तत्कार्यस्यापि मानस्य बहुखमतो बहुवचनं, चकाराः स्वगतभेदसंसूचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा-पलिकुश्चनं-मायां धूनय धूनीहि वा, तथा भजनलोभ, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं-मानं, विचित्रखात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस दुस्त्यजखात् लोभस्य च मायापूर्वकखादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि पलिकुश्चनादीनि असिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥ ११ ॥ पुनरप्युत्तरगुणानधिकृत्याह-धावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवासनारूपं तथा 'विरेचनं निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वान् खरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत ॥ १२ ॥ अपिचगंधमल्लसिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३ ॥ १ निरूहो निश्चिते तर्के बस्तिभेदे इति हैमः । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy