________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
तथाभूतं 'शोक संतापं 'त्यक्त्वा ' परित्यज्य श्रोतो वा-मिथ्याखाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णऽणंतगं सोयं अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम्-"छलिया
अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयवं ॥ १॥ भोगे अवयक्खंता पडंति संसार॥ सागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकतारं ॥२॥" इति ॥ ७॥ स एवं प्रबजितः सुव्रताबस्थितात्माहिंसादिषु
व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह-'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिमाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह–'तृणानि' कुशवैच्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैवर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पश्चापि कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजाः-शकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-हस्तिशरमादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा । संखेदाजाताः संखेदजा-यकामत्कुणादयः 'उद्भिजा खञ्जरीटकददुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ॥८॥
१ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविनेन तस्मात्प्रवचनसारे ( ज्ञाते) निरपेक्षेण भवितव्यम् ॥ १॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे घोरे । भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥१॥३ बन्धका०प्र० ।
seeeeeeeeeeeeeeeee
eek.se.
For Private And Personal