________________
Shri Mahar
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
| मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेनातिक्रमं न कुर्यात् , तथा सर्वतः-सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रि-10 यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुष्ट्रद्युक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत-गृह्णीयादित्यर्थः ॥ २०॥ किश्चान्यत्कडं च कजमाणं च, आगमिस्सं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥
जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सबसो ॥ २२ ॥ & साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते
तत्सर्व मनोवाकायकर्मभिः 'नानुजानन्ति नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थ पापर्क कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च-ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतकर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, न च व्याकरणपरिज्ञानमात्रेण सम्यक्खव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्-"शास्त्रावगाहपरिघट्टनतत्परोपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम् ।
For Private And Personal