SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir 18| कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बभातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरि| त्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि' खयंकरणेन परकरणेन चासंयता-जीवोपघातकारिण इत्यर्थः ॥ ६॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराइं कुबई वेरी, तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥ ___ संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥ ८॥ - वैरमस्यास्तीति वैरी, संजीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैरैरनुरज्यते-संबध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः, किमिति १, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते ?-'आरम्भा' सावद्यानुष्ठानरूपाः 'अन्तशो' विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥ ७॥ किश्चान्यत् 'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिक च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिक IS तत् जीवोपमद्देकलेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिण: स्वपापविधायिनः सन्तो 'नियच्छन्ति' बन्नन्ति, तानेव विशिनष्टि |'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्य 'बहु' ॥ अनन्तं 'कुर्वन्ति' विदधति ॥ ८॥ एवं बालवीर्य प्रदर्योपसंजिघृक्षुराह एवं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy