________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandit
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
॥१५॥
edeeeeeeeeeees
गाख्यैरेकादशभिर्गुणैर्गुणवत् , तत्र रूपं शुक्लं भाखरं च, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या- १ समयापरिमाणपृथक्खसंयोगविभागपरत्वापरत्ववेगाख्यैनवभिगुणगुणवान् हत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा
IN ध्ययने पिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः पड्भिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि रसमये वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहकारिक
चार्वाक: तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ।। ७॥ यथा चैतत् तथा दर्शयितुमाह-'एए पंच महन्भूया' इत्यादि, श्लोक: 'एतानि अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथा(ते) हि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणामावात् , प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य संबन्धाभावाद्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे चबाधासभवे तल्लक्षणमेव दुषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम्- "हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रघानेन, विनिपातो न दुर्लमः ॥१॥" अनुमानं चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति ।
IR॥१५॥ तसात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि-| १ हृति० प्र० हरणमित्यर्थः।
For Private And Personal