________________
Shri Ma
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
Granmandir
000000000000000000
| भाववादिनिराकरणं द्रष्टव्यम् , 'इह' असिन् लोके 'एकेषां भूतवादिनाम् 'आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि-स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथापृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाचन कैश्चिदपोतुं शक्यानि । ननु च साङ्ख्यादिभि रपि भूतान्यभ्युपगतान्येव, तथाहि सांख्यास्तावदेवमूचुस्तद्यथा-सत्वरजस्तमोरूपात्प्रधानान्महान् , बुद्धिरित्यर्थः, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्काराषोडशको गण उत्पद्यते, स चायम्-पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वा
पाणिपादपायपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्रा. ४ ख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत्,
स्पर्शतन्मात्राद्वायुः स्पर्शवान् , शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यमिहितवन्तः, तद्यथा--पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, घणुकादिप्रक्रमनिष्पन्नकार्यरूपतया खनित्या, | चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्खसंयोगविभागपरखापरखगुरुखवखवेगाख्यरुपेता, तथाऽप्खयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथक्वसंयोगविभागपरखापरत्वगुरुवस्वाभाविकद्रवखस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्वसंयोगविभागपरखापरखनैमित्तिकद्रवत्ववे१ आगोपालाशना प्र०।
tereceneseseseaescee
For Private And Personal