________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarna
| व्यज्यते, मद्यानेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् , घटादिवदिति । तदेवं भूतव्यति| रिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुबुदाभिव्यक्तिवदिति । केषाञ्चिल्लोकायतिकानामाकाशस्थापि भूतखेनाभ्युपगमाद्भुतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तहि मृत इति व्यपदेश इत्याशयाह-अथैषां कायाकारपरिणतौ चैतन्यामिव्यक्ती सत्यां तवं तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसश्चोभयो 'देहिनों' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम. इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थ नियुक्तिकृदाह
पंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो॥३३॥ | 'पश्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारणपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचक्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्वत्र हेतुखेनोपात्ताः, दृष्टान्तस्वभ्यः , सुलभत्वात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदे-15 तद्भूतानां संयोगे चैतन्यमभिव्यज्यते तरिक तेषां संयोगेऽपि स्वातंत्र्य एवाऽऽहोस्तित्परस्परापेक्षया पारतव्ये इति ?, किंचातः१, न तावत्स्वातत्र्ये, यत आह–'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पक्तृगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिम्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावाम तत्समुदायाश्चैतन्याख्यो गुणः
For Private And Personal