SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir 'बालिशेन' अज्ञेन सदसद्विवेकस्यालम्भ इत्येतच्चावगम्य तथा निश्चयंनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोकः' संसारिप्राणिगणः, तथा चोक्तम् - " जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो ॥ ॥ १ ॥ " तथा " तहाँ इयस्स पाणं कुरो छुहियस्स भुज्जए तित्ती । दुक्खसयसंपत्तं जरियमिव जगं कलयलेइ ॥१॥” इति, अत्र चैवम्भूते लोके अनार्यकर्मकारी खकर्मणा 'विपर्यासमुपैति' सुखार्थी प्राण्युपमद्दे कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी | संसारं पर्यटतीति ॥ ११ ॥ उक्तः कुशीलविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते - 'इहे 'ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति – प्रतिपादयन्ति, किं तत् १ - 'मोक्षं' मोक्षावासिं, केनेति दर्शयति - आहियत इत्याहार - ओदनादिस्तस्य सम्पद् - रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं - लवणं, तेन द्या| हारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन - लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरं वा 'आहारसपंचय| वज्जणेण' आहारेण सह लवणपश्ञ्चकमाहारसपञ्चकं, लवणपञ्चकं चेदं तद्यथा-सैंधवं सौवर्चले बिडं रौमं सामुद्रं चेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तम्- “लवणविणा य रसा चक्खुविहूणा य इंदियग्गामा । धम्मो दुयाय रहिओ | सोक्खं संतोसर हियं नो ॥ १ ॥ " तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना' मिति, तदेवम्भूतलवणपरिवर्जनेन रसपरि १ कर्मोदय संपादितसुखादिपरिणामानां तन्मते दुःखरूपलात् । २ जन्म दुःखं जरा दुःखं रोगाव मरणं च अहो दुःखः एव संसारः यत्र क्लिश्यन्ति जन्तवः ॥ ३ तृष्णार्दितस्य पानं कूरः क्षुधितस्य भुक्तौ तृप्तिः दुःखशतसम्प्रयुक्तं ज्वरितमिव जगत्कलकलति ॥ १ ॥ ४ लवणविहीनाश्च रसाचक्षुर्विहीनाञ्चेन्द्रियप्रामाः । धर्मो दयया रहितः सौख्यं सन्तोषरहितं न ॥ १ ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy