________________
Shri Mahavir 160adhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥१५७॥
www.kobatirth.org
Acharya Shri Kailashsagyanmandir
जे छिंदती आयसु पडुच्च, पागब्भि पाणे बहुणं तिवाती ॥ ८ ॥ जातिं च वुडिं च विणासयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोऍ अणजधम्मे, बीयाइ जे हिंसति आयसाते ॥ ९ ॥ गभाइ मिज्जति बुयाबुयाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, ( पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा ॥ १० ॥
न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी - मृल्लक्षणा असावपि जीवाः, तथा आपथ- द्रवलक्षणा जीवास्तदाश्रिताश्च प्राणाः 'सम्पातिमाः शलभादयस्तत्र सम्पतन्ति, तथा 'संस्वेदजाः ' करीषादिष्विन्धनेषु घुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकार्यं समारभेत, ततोऽग्निकायसमारम्भो महादोषायेति ॥ ७ ॥ एवं तावदग्निकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिस| मारम्भादनिवृत्ताः परामृश्यन्ते इत्याह- 'हरितानि' दूर्वाङ्कुरादीन्येतान्यप्याहारादेर्वृद्धिदर्शनात् 'भूतानि' जीवाः तथा 'विल|म्बकानीति' जीवाकारं यान्ति विलम्बन्ति - धारयन्ति, तथाहि — कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीर्णानि परिशु - ष्काणि मृतानि तथा वृक्षा अप्यङ्कुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखा प्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः
For Private And Personal
७ कुशीलपरिभाषा.
॥१५७॥