________________
Shri Main Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तं च प्राणिनां स्वल्पमिति संख्याय - ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय 'कर्मण:' सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा - 'कर्मणा' | क्रियया संयमानुष्ठानरूपमा बन्धनात् शुद्ध्यति, कर्मणः पृथग्भवतीत्यर्थः ॥ ५ ॥ अध्ययनार्थाधिकाराभिहितत्वात्खसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह
एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्तित्ता, सत्ता कामेहि माणवा ॥ ६ ॥
'एतान् ' अनन्तरोक्तान् ग्रन्थान् 'व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः ' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहितः, तद्यथा - जीवा - स्तिले सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्वात्वाविरतिप्रमादादयः परिग्रहारम्भादयश्च तत्रोटनं च सम्यग्द्र्शनाद्युपायेन, मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्द्ध| दुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम् - अनेकप्रकारम् उत् — प्राबल्येन सिता - बद्धाः स्वसमयेष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति यथा— सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, | क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः - सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽह
१ परिव्राजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा
For Private And Personal